Sanskrit – Version :
मठाम्नाय – महानुशासनम् – सेतु, Mathamnaya Mahanushasanam Setu ,
। शारदा मठाम्नायः । Sharada Mathamnaya
प्रथमः पश्चिमाम्नायः शारदामठ उच्यते । कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ (शुभौ ) पदे ॥ १॥
द्वारकाख्यं हि क्षेत्रं स्याद् देवः सिद्धेश्वरः स्मृतः । भद्रकाली तु देवी स्याद् आचार्यो विश्वरूपकः ॥ २॥
गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः । सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ॥ ३॥
सिन्धु-सौवीर-सौराष्ट्र-महाराष्ट्रस्तथान्तराः । देशाः पश्चिमदिक्स्था ये शारदा पीठ सात्कृता: (मठभागिनः)॥४ ॥
जीवात्मपरमात्मैक्य बोधो यत्र भविष्यति । तत्त्वमसि महावाक्यं गोत्रोऽविगत उच्यते ॥५ ॥
त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनाम्ना स उच्यते ॥ ६॥
आश्रमग्रहणे प्रौढ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदाश्रमलक्षणम् ॥ ७॥
कीटादयो विशेषेण वार्यन्ते यत्र जन्तवः । भूतानुकम्पया नित्यं कीटवारः स उच्यते ॥ ८॥
स्व-स्वरूपं विजानाति स्वधर्म-परिपालकः । स्वानन्दे क्रीडते नित्यं स्वरूपो ब(व)टुरुच्यते ॥ ९॥
। गोवर्धनमठाम्नायः । Govardhana Mathamnaya
पूर्वाम्नायो द्वितीयः स्याद् गोवर्धनमठः स्मृतः । भोगवारः सम्प्रदायो वनारण्ये पदे स्मृते ॥ १०॥
(द्वितीय: पूर्वादिग्भागे गोवर्धन मठ: स्मृतिः)
पुरुषोत्तमं तु क्षेत्रं स्यांज्जगन्नाथोऽस्य देवता । विमलाख्याहि देवी स्यादाचार्यः पद्मपादकः ॥ ११॥
तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः । महावाक्यं च तत्र स्यात् प्रज्ञानं ब्रह्म चोच्यते ॥ १२॥
( (महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्म चोच्यते)
ऋग्वेदपठनं चैव काश्यपो गोत्रमुच्यते । अङ्गबङ्गकलिङ्गाश्च मगधोत्कलबर्बराः ।
गोवर्धनमठाधीना देशाः प्राचीव्यवस्थिताः ॥ १३॥
सुरम्ये निर्जने स्थाने वने वासं करोति यः । आशाबन्धविनर्मुक्तो वननामा स उच्यते ॥ १४॥
अरण्ये संस्थितो नित्यमानन्दे नन्दने वने । त्यक्त्वा सर्वमिदं विश्वमारण्यं परिकीर्त्यते ॥ १५॥
भोगो विषय इत्युक्तो वार्यते येन जीविनाम् । सम्प्रदायो यतीनाञ्च भोगवारः स उच्यते ॥ १६॥
स्वयं ज्योतिर्विजानाति योगयुक्तिविशारदः । तत्त्वज्ञानप्रकाशेन तेन प्रोक्तः प्रकाशकः ॥ १७॥
। ज्योतिर्मठाम्नायः। Jyotirmathamnaya
तृतीयस्तूत्तराम्नायो ज्योतिर्नाम मठो भवेत् । श्रीमठश्चेति वा तस्य नामान्तरमुदीरितम् ॥ १८॥
आनन्दवारो विज्ञेयः सम्प्रदायोऽस्य सिद्धिदः । पदानि तस्य ख्यातानि गिरिपर्वतसागराः ॥ १९॥
बदरीकाश्रमः क्षेत्रं देवो नारायणः स्मृतः । पूर्णागिरि च देवी स्यादाचार्यस्तोटकः स्मृतः ॥ २०॥
तीर्थं चालकनन्दाख्यं आनन्दो ब्रह्मचार्यभूत् । अयमात्मा ब्रह्म चेति महावाक्यमुदाहृतम् ॥ २१॥
अथर्ववेदवक्ता च भृग्वाख्यं गोत्रमुच्यते । कुरुकाश्मीरकाम्बोजपांचालादिविभागतः ।
ज्योतिर्मठवशा देशा उदीचीदिगवस्थिताः ॥ २२॥
वासो गिरिवने नित्यं गीताध्ययनतत्परः । गंभीराचलबुद्धिश्च गिरिनामा स उच्यते ॥ २३॥
वसन् पर्वतमूलेषु प्रौढं ज्ञानं विभर्ति यः । सारासारं विजानाति पर्वतः परिकीर्त्यते ॥ २४॥
तत्त्वसागरगम्भीर ज्ञानरत्नपरिग्रहः । मर्यादां वै न लब्येत सागरः परिकीर्त्यते ॥ २५॥
आनन्दो हि विलासश्च वार्यते येन जीविनाम् । सम्प्रदायो यतीनां चानन्दवारः स उच्यते ॥ २६॥
सत्यं ज्ञानमनन्तं यो नित्यं ध्यायेत तत्त्ववित् । स्वानन्दे रमते चैव आनन्दः परिकीर्त्यते ॥ २७॥
। शृङ्गेरी मठाम्नायः । Sringeri Mathamnaya
चतुर्थो दक्षिणाम्नायः शृङ्गेरी तु मठो भवेत् । सम्प्रदायो भूरिवारो भूर्भुवो गोत्रमुच्यते ॥ २८॥
पदानि त्रीणि ख्यातानि सरस्वती भारती पुरी । रामेश्वराह्वयं क्षेत्रमादिवाराहदेवता ॥ २९ ॥
कामाक्षी तस्य देवी स्यात् सर्वकामफलप्रदा । हस्तामलक आचार्यस्तुङ्गभद्रेति तीर्थकम् ॥ ३० ॥
( पृथ्वीधराह्व,आचार्य: तुङ्गभद्रेति तीर्थकम् )
चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः । अहं ब्रह्मास्मि तत्रैव महावाक्यं समीरितम् ॥ ३१ ॥
आन्ध्र द्रविड कर्णाट केरलादिप्रभेदतः । शृङ्गेर्यधीना देशास्ते ह्यवाचीदिगवस्थिताः ॥ ३२॥
स्वरज्ञानरतो नित्यं स्वरवादी कवीश्वरः । संसारसागरासारहन्ताऽसौ हि सरस्वती ॥ ३३॥
विद्याभरेण सम्पूर्णः सर्वभारं परित्यजन् । दुःखभारं न जानाति भारती परिकीर्त्यते ॥ ३४॥
ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं पुरीनामा स उच्यते ॥ ३५॥
भूरिशब्देन सौवर्ण्य बार्यते येन जीविनाम् । सम्प्रदायो यतीनां च भूरिवारः स उच्यते ॥ ३६॥
चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् । यो जानाति स वै विद्वान् चैतन्यं तद्विधीयते ॥ ३७॥
(चतुर्थो दक्षिणस्यां च श्रुङ्गेर्यां शारदामठ: )
। महानुशासनम् । Mahanushasanam
मर्यादैषा सुविज्ञेया चतुर्मठविधायिनी । तामेतां समुपाश्रित्य आचार्याः स्थापिताः क्रमात् ॥ ३८॥
आम्नायाः कथिता ह्येते यतीनाञ्च पृथक् पृथक् । तैः सर्वैश्चतुराचार्यैर्नियोगेन यथाक्रमम् ॥ ३९ ॥
प्रयोक्ततव्याः स्वधर्मेषु शासनीयास्ततोऽन्यथा ।कुर्वन्तु एव सततमटनं धरणीतले ॥ ४० ॥
विरुद्धाचरणप्राप्तावाचार्याणां समाज्ञया । लोकान् संशीलयन्त्वेव स्वधर्माप्रतिरोधतः ॥ ४१ ॥
स्व-स्वराष्ट्रप्रतिष्ठित्यै सञ्चारः सुविधीयताम् । मठे तु नियतो वास आचार्यस्य न युज्यते ॥ ४२॥
वर्णाश्रमसदाचारा अस्माभिर्ये प्रसाधिताः । रक्षणीयाः सदैवैते स्व-स्व भागे यथाविधि ॥ ४३॥
चतो विनष्टिर्महती धर्मस्यास्य प्रजायते मान्द्यं सन्त्याज्यमेवात्र दाक्ष्यमेव समाश्रयेत् ॥ ४४॥
परस्परविभागे तु न प्रवेशः कदाचन । परस्परेण कर्तव्या ह्याचार्येण व्यवस्थितिः ॥ ४५॥
मर्यादाया विनाशेन लुप्येरन्नियमाः शुभाः । कलहाङ्गारसम्पत्तिर तस्तां परिवर्जयेत् ॥ ४६॥
परिव्राडार्यमर्यादो मामकीनां यथाविधि । चतुष्पीठाधिगां सत्तां प्रयुञ्ज्याच्च पृथक् पृथक् ॥ ४७॥
शुचिर्जितेन्द्रियो वेद-वेदाङ्गादिविशारदः । योगज्ञः सर्वशास्त्राणां स मदास्थानमापुयात् ॥ ४८॥
उक्तलक्षणसम्पन्नः स्याच्चेन्मत्पीठभाग् भवेत् । अन्यथारूढपीठोऽपि निग्रहार्हो मनीषिणाम् ॥ ४९ ॥
नजातु मठमुच्छिन्द्यादिधिकारिण्युपस्थिते । विघ्नानामपि बाहुल्यादेष धर्मः सनातनः ॥ ५०॥
अस्मत्पीठसमारूढः परिब्राडुक्तलक्षणः । अहमेवेति विज्ञेयो यस्य देव इति श्रुतेः ॥ ५१ ॥
एक एवाविषेच्यः स्यादन्ते लक्षणसम्मतः । तत्तत्पीठे क्रमेणैव न बहु युज्यते क्वचित् ॥ ५२॥
सुधन्वनः समौत्सुक्यनिवृत्यै धर्म-हेतवे । देवराजोपचारांश्च यथावदनुपालयेत् ॥ ५३॥
केवलं धर्ममुद्दिश्य विभवो ब्रह्मचेतसाम् । विहितश्चोपकाराच पद्मपत्रनचं व्रजेत् ॥ ५४॥
सुधन्वा हिमहाराजस्तथान्ये च नरेश्वराः । धर्मपारम्परीमेतां पालयन्तु निरन्तरम् ॥ ५५॥
चातुर्वर्ण्य यथायोग्यं वाड्यनः कायकर्मभिः । गुरोः पीठं समर्चेत विभागानुक्रमेण वै ॥ ५६ ॥
धरामालम्ब्य राजानः प्रजाभ्यः करभागिनः । कृताधिकारा आचार्या धर्मतस्तद्वदेव हि ॥ ५७॥
धर्मो मूलं मनुष्याणां स चाचार्यावलम्बनः । तस्मादाचार्यसुमणेः शासनं सर्वतोऽधिकम् ॥ ५८॥
तस्मात् सर्वप्रयत्नेन शासनं सर्वसम्मतम् । आचार्यस्य विशेषेण ह्यौदार्यभरभागिनः ॥ ५९॥
आचार्याक्षिप्त दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ६०॥
इत्येवं मनुरप्याह गौतमोऽपि विशेषतः । विशिष्टशिष्टाचारोऽपि मूलादेव प्रसिध्यति ॥ ६१ ॥
तानाचार्योपदेशांश्च राजदण्डांश्च पालयेत् । तस्मादाचार्यराजानावनवद्यौ न निन्दयेत् ॥ ६२॥
धर्मस्य पद्धतिह्यषा जगतः स्थितिहेत्वे । सर्ववर्णाश्रमाणां हि यथाशास्त्रं विधीयते ॥ ६३॥
कृते विश्वगुरुर्ब्रह्मा त्रेतायामृषीसत्तमः । द्वापरे व्यास एव स्यात् कलावत्र भवाम्यहम् ॥ ६४॥
मठाश्चत्वार आचार्याचत्वारश्वधुरन्धराः । सम्प्रदायाश्च चत्वार एषा धर्मव्यवस्थितिः ॥ ६५॥
अथोध्र्ध्व शेषा आम्नायाः atha Urdhva, Shesha Amnaya
विज्ञानैक विग्रहाः पञ्चमस्तूर्ध्व आम्नायः सुमेरुमठ उच्यते । सम्प्रदायोऽस्य काशी स्यात् सत्यज्ञानाभिधे पदे ॥ ६६ ॥
कैलासः क्षेत्रमित्युक्तं देवताऽस्य निरञ्जनः । देवी माया तथाचार्य ईश्वरोऽस्य प्रकीर्तितः ॥ ६७॥
तीर्थ तु मानसं प्रोक्तं ब्रह्मतत्त्वावगाहि तत् । तत्र संयोगमात्रेण संन्यासं समुपाश्रयेत् ॥ ६८॥
सूक्ष्मवेदस्य वक्ता च तत्र धर्मं समाचरेत् । षष्ठ स्वात्माख्य आम्नायः परमात्मा मठो महान् ॥ ६९ ॥
सत्त्वतोषः सम्प्रदायः पदं योगमनुस्मरेत् । नभः सरोवरं क्षेत्रं परहंसोऽस्य देवता ॥ ७० ॥
देवी स्यान्मानसी माया आचार्यश्चेतनाह्वयः । त्रिपुटीतीर्थमुत्कृष्टं सर्वपुण्यप्रदायकम् ॥ ७१ ॥
भव-पाशविनाशाय संन्यासं तत्र चाश्रयेत् । वेदान्तवाक्यवक्ता च तत्र धर्म समाचरेत् ॥ ७२॥
सप्तमो निष्कलाम्नायः सहस्त्रार्कद्युतिर्मठः । सम्प्रदायोऽस्य सच्छिष्यः श्रीगुरोः पादुके पदे ॥ ७३॥
तत्रानुभूतिः क्षेत्रं स्याद् विश्वरूपोऽस्य देवता । देवी चिच्छक्तिनाम्नी हि आचार्यः सद्गुरुः स्मृतः ॥ ७४॥
सच्छास्त्रश्रवणं तीर्थं जरामृत्युविनाशकम् । पूर्णनन्दप्रसादेन संन्यासं तत्र चाश्रयेत् ॥ ७५॥
॥ इति श्री पूज्य गोविन्दभगवत्पाद शिष्य: जगद्गुरु भगवत्पाद श्री आद्य शङ्कराचार्य कृत मन्मठाम्नाय महानुशासनं सम्पूर्णम् ॥
iti Sri Govindabhagavatpada Shishyah Jagadguru Shri Adi Shankarahaya Bhagavtpada Kruta Mathamnaya Mahanushasanam Sampoornam
Collection Editing, By Badari, Jyotirmath, Dwaraka Sharada Peetha Jagadguru Sri Shankarachaya Brahmaleena Dharma Samrat Swami Sri Swaroopananda Sarasvati iji Maharaj’s Deekshita Shishya Paramahamsa Privrajaka Swami Sri Govindananda Saraswati Ji Maharaj
_________________________________________________________________________________________________________
Mathaamnaya – Mahanushasanam – Setu English Translation
। 1 शारदा मठाम्नायः । । Sharada Mathamnaya ।
Shloka 1
प्रथमः पश्चिमाम्नायः शारदामठ उच्यते । कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ (शुभौ ) पदे ॥ १॥
Prathamah Paschchimamnayah Shardamatha Uchyate ।
Keetwarh Sampradayastasya Teerthashramau (shubhau) Pade ॥ 1॥
Meaning: The Aamnaaya associated to West direction is the first which is called Shaaradaa Matha. its sampradaaya (sect) is ” Keetawaar”. Yogapatta (Surname of Shubhaprada Sanyaasies (auspicious hermits ) related to that Aamnaaya is ‘ Teertha ‘ and ‘ Aashram ‘ ।। 1।।
Shloka 2 .
द्वारकाख्यं हि क्षेत्रं स्याद् देवः सिद्धेश्वरः स्मृतः । भद्रकाली तु देवी स्याद् आचार्यो विश्वरूपकः ॥ २॥
Dwarkaakhyaam hi kshetram syaad devah siddheshwarah smritah.
Bhadrakali tu devi syaad acharyo vishvarupakah ॥ 2॥
Meaning: It’s territory is named as Dwaarakaa. It’s Dev (God) is ‘ Maanya Siddheshwar ‘. Bhadrakaali is its Devi (goddess ). It’s first Aachaarya (the head of the Aamnaaya ,that is, Shankaracharya) anointed by me is Sureshwar known as Vishwaroop. ।। 2।।
Shloka 3.
गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः । सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ॥ ३॥
Gomatitirthammalam brahmachari swaroopakah.
Samavedasya vakta cha tatra dharmam samacharet ॥ 3॥
Meaning: Pure ‘ Gomti ‘ is its holy place or holy water or place of pilgrimage. Its Veda is Saama Veda ‘Swaadhyaaya’ (regular self study) and ‘Pravachan’ ( discourse) is the prime Dharma (religious duty)of the celibatarians connected to this Aamnaaya who are known as ‘Swaroop’.।। 3 ।।
Shloka 4.
सिन्धु-सौवीर-सौराष्ट्र-महाराष्ट्रस्तथान्तराः । देशाः पश्चिमदिक्स्था ये शारदा पीठ सात्कृता: (मठभागिनः)॥ ४॥
Shlok : 4. Sindhu-Sauveer-Saurashtra-Maharashtrastatantara.
Desha: Paschimdikstha, this Sharda Peeth, Satkrita: (Mathbhaginah)॥ 4॥
Meaning : Sindhu, Sauvir (Kutch), Saurashtra (kathiyawad), Maharashtra and the region situated in between them on the Western side are under the jurisdiction of Shaaradaa matha.।। 4 ।।
Shloka 5.
जीवात्मपरमात्मैक्य बोधो यत्र भविष्यति । तत्त्वमसि महावाक्यं गोत्रोऽविगत उच्यते ॥ ५॥
Jeevatma Paramatmaikya Bodho Yatra Bhavishyati.
Tattvamasi Mahavakyam Gotrovigat Uchyate ॥ 5॥
Meaning : Realisation of oneness of the Soul and the Supreme being is possible through perpetual self study and investigation of “Tattwamasi ” embedded in the 6th chapter of ‘ Chhaandogyopanishhat’ connected to Saamaveda; however, ‘Tattwamasi’ is Mahaavaakya of this matha , the gotra’ (sept) of this matha is’ Avigata’. ।। 5 ।।
Shloka 6.
त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनाम्ना स उच्यते ॥ ६॥
Triveni Sangame Teerthe Tatvamasyadi Lakshane ।
Snyayatttavartha Bhavena Teerthanaamnaa sa uchyate ॥,
Meaning : The Sanyaasi of this Matha takes bath in the Triveni Sangam formed by the three terms, ‘Tatt’, ‘Twam, and ‘Asi’ embedded in the Mahaavaakya of this math ” Tattwamasi ” with a view to deeply understand the implications as his natural way of life is denoted by the term ‘Teertha’ meaning thereby that the Sanyaasi of this matha is called “Teertha”.।। 6 ।।
Note :–Triveni Sangam is formed at prayagraj by the three pious rivers namely , the Ganga , the Yamuna and the invisible Saraswati. On the same line the three terms ‘Tatt’, :Twam’ and ‘Asi’ have been visualised as forming a Triveni Sangam,
Shloka 7.
आश्रमग्रहणे प्रौढ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदाश्रमलक्षणम् ॥ ७॥
Ashrama Grahane Praudha Ashaapaasha Vivarjitaha ।
Yataa Yata vinirmukhatah etadashrama lakshanam।। 7 ।।
Meaning : The characteristic of the Sanyaasi named ‘Aashram’ is acceptance of the fourth Aashram of the life span that is the Sanyaas Aashram and remaining strict in following it’s operations , becoming free from clutch of worldly fame and prosperity ( Lokaishana) , collection of wealth and desire (Vittaishanaa) of sons – grand sons etc ( Putraishana). and also becoming free from the perpetual cycle of birth- death and rebirth. ।। 7 ।।
Shloka 8.
कीटादयो विशेषेण वार्यन्ते यत्र जन्तवः । भूतानुकम्पया नित्यं कीटवारः स उच्यते ॥ ८॥
Keetaadayo Visheshena Vaaryante yatra jantavaha ।
Bhutanikampayaa nityam keetavaarah sa uchyate ॥
Meaning: The sect (sampradaaya) that has mercy on the immovable and movable creatures , that always saves such petty creatures from dying whose protection depends specially on the mercy of human beings like insects etc. is called ‘ ‘ Keetavaar sampradaaya’. ।। 8 ।।
Shloka 9.
स्व-स्वरूपं विजानाति स्वधर्म-परिपालकः । स्वानन्दे क्रीडते नित्यं स्वरूपो ब(व)टुरुच्यते ॥ ९॥
Sva Svaroopam Vijaanaati Svadharma paripaalakah,
Svaanando Kreedate Nityam Svarupo Vaturuchyate ।। 9 ।।
Meaning : As a result of compliance of his own religious duties and activities such as worship and service of the Aachaarya, perpetual self study, discourse etc. the ‘ Brahmachaaree ‘ of this math achieves affluence in ‘Saadhan chatushhtaya’ comprising of ‘vivek’ (expertise in distinguishing between eternal and worldly affairs), ‘ vairaagya ‘, ( indifference towards materialistic activities) etc. and thereafter always remains playful in self bliss enriched in science of his own real form available due to hearing etc.of his own choice is called “Swaroop”. ।। 9 ।।
। 2 गोवर्धन मठाम्नायः । । Govardhana Mathamnaya ।
Shloka 10 :
पूर्वाम्नायो द्वितीयः स्याद् गोवर्धनमठः स्मृतः । भोगवारः सम्प्रदायो वनारण्ये पदे स्मृते ॥ १०॥
( द्वितीय: पूर्वादिग्भागे गोवर्धन मठ: स्मृतिः )
Poorvamnayo Dvitiya Syad Govardhana matha ।
Smrutah Bhogavarah samprayayo Vanaaranye pade smrute ।। 10 ।।
Meaning: The Aamnaaya connected to the east direction is the second one. This is known as “Bhogavardhana Govardhana matha “. The sect of this Matha is ” Bhogawaara” The surname ( ‘pada’ or ‘yogapatta’ ) of the auspicious Sanyaasees of this matha is ‘Vana’ and ‘Aranya’. ।। 10 ।।
Shloka 11 :
पुरुषोत्तमं तु क्षेत्रं स्यांज्जगन्नाथोऽस्य देवता । विमलाख्याहि देवी स्यादाचार्यः पद्मपादकः ॥ ११॥
Purushottamam tu kshetram saayaad Jagannatjo asya devataa ।
Vimalakhyahi devee syaadachaarya padmapaadaka: ।। 11 ।।
Meaning: The region of this matha is known as “Purushhottama Kshetra” It’s Devta (God ) is ‘ ‘Jagannaatha’ and its Devi (Goddess) is ‘Vimalaa’. The first Aachaarya ( the Shankaracharya anointed earlier known as Sanandan ) is ‘Padmapaada’.।। 11 ।।
Shloka 12 :
तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः । महावाक्यं च तत्र स्यात् प्रज्ञानं ब्रह्म चोच्यते ॥ १२॥
( महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्म चोच्यते ) ।। 12 ।।’
Teertham Mahodhadi proktam brahmachari prakashakah | mahaavaakhyam cha tatra syat pragnyanam brahma uchyate ( Mahavakyam cha tatroktam pragnyanam brahma chochyate ।। 12 ।।’
Meaning: The ‘Teertha’ ( holy water) of the matha is ‘Mahodadhi’ (Ocean). It’s Brahmachaari is called ‘ ‘Prakash’. Its Mahaa vaakya is ” Prajnaanam Brahma ” which is included as verse no. 5/3 in “Aitareyopanishhat” affiliated to ‘ Rigveda. ।। 12 ।।’
Shloka 13 :
ऋग्वेदपठनं चैव काश्यपो गोत्रमुच्यते । अङ्गबङ्गकलिङ्गाश्च मगधोत्कलबर्बराः ।
गोवर्धनमठाधीना देशाः प्राचीव्यवस्थिताः ॥ १३॥
Rugveda Pathanam Chaiva Kashyapo Gotramuchyate | anga vanga kalingaascha maghadhotkala barbaraa | Govardhana mathadheenaa cehsaah pracheevyavasthitah ।। 13 ।।
Meaning: The Veda of this matha is Rigveda. It’s sect is called Kaashyap. The areas on the eastern side namely Ang (Bhagalpur), Bang ,Vanga (Bangal), Kaling (South eastern India, Dakshin purva Bharat), Magadh , Utkal (Odisha) , barbara( Jangal Pradesh) are included in the jurisdiction of this matha. ।। 13 ।।
Shloka 14 :
सुरम्ये निर्जने स्थाने वने वासं करोति यः । आशाबन्धविनर्मुक्तो वननामा स उच्यते ॥ १४॥
Suramye nirjane sthaane vane vaasam karoti yaha । Ashaabandhavinirmukto vana naamaa sa uychyate ।।Meaning: The Sanyaasees connected to this matha who , having become free from the clutches of perpetual cycle of birth-death and rebirth , reside in the charming, lonely part of the forest, are called “Vana naamaa” Sanyaasees.।। 14 ।।
Shloka 15 :
अरण्ये संस्थितो नित्यमानन्दे नन्दने वने । त्यक्त्वा सर्वमिदं विश्वमारण्यं परिकीर्त्यते ॥ १५॥
Aranye samsthito nityamanando nandane vane ।
tyaktvaaa sarvamidam vishvamaaranyam parikeerthyate ।। 15 ।।
Meaning: The Sanyaasees connected to this matha who have given up all the attachments of this world by virtue of obtaining profound penetrating knowledge of dispassion , perception and renunciation in materialistic world and reside all the time in the forest of pleasure as if they are in the ‘Nandanvan ‘which is considered as the most attractive Orchard of Indra Bhavan in his own eternal form are called ‘Aaranya’ naamaa Sanyaasees.।। 15 ।।
Shloka 16 :
भोगो विषय इत्युक्तो वार्यते येन जीविनाम् । सम्प्रदायो यतीनाञ्च भोगवारः स उच्यते ॥ १६॥
Bhogo Vishaya ityukto vaaryate yena jeevinaam | sampradaayo yateenaamcha bhogavaara sa uchyate ||
Meaning: The sound ,touch , look , taste and smell as well as the substances such as garland, sandalwood , woman etc. which are the means of expressing them are known as sensual enjoyment. That sect of the Sanyaasees which keeps the creatures away from the sensual indulgence is called ” Bhogawaar “. ।। 16।।
Shloka 17 :
स्वयं ज्योतिर्विजानाति योगयुक्तिविशारदः । तत्त्वज्ञानप्रकाशेन तेन प्रोक्तः प्रकाशकः ॥ १७॥
Svayam Jyotirvijaanaati Yogayukti vishaaradah | tatva gnyana prakashena tena prokttah prakaashakah
|| 17||
Meaning: The Brahmachari who dully understands the self illuminated Brahmaatmatattwa (ultimate reality regarding Almighty and Soul) and who is yog expert is called ‘ ‘Prakash ‘ because of his enrichment of knowledge acquired due to dedication in tattwajnaan ( knowledge of ultimate reality ). ।। 17 ।।
। 3. ज्योतिर्मठाम्नायः। Jyotirmathamnaya
Shloka 18 :
तृतीयस्तूत्तराम्नायो ज्योतिर्नाम मठो भवेत् । श्रीमठश्चेति वा तस्य नामान्तरमुदीरितम् ॥ १८॥
Tritiyastuttaramnaya jyotirnama matho bhavet. Shrimatashcheti va tasya namantarmudiritam ॥ 18॥
Meaning: The Aamnaaya connected to the Northern direction is the third one. Its name is Jyotirmatha.Its another name is Shreematha.।। 18 ।।
Shloka 19 :
आनन्दवारो विज्ञेयः सम्प्रदायोऽस्य सिद्धिदः । पदानि तस्य ख्यातानि गिरिपर्वतसागराः ॥ १९॥
Anandvaro vijyeah sampradayoesya siddhidha.
Padani Tasya Khyatani Giri parvat sagarah ॥ 19॥
Meaning:: The sect of this Aamnaaya is ‘Aanandwaar ‘ which provides accomplishment. The surname ( Pada or Yogapatta ) of the Sanyaasees connected to this matha are ‘Giri’ , ‘Parvat’ , and ‘Sagar ‘.।। 19 ।।
Shloka 20 :
बदरीकाश्रमः क्षेत्रं देवो नारायणः स्मृतः । पूर्णागिरि च देवी स्यादाचार्यस्तोटकः स्मृतः ॥ २०॥
Badrikashramah kshetram devo narayanah smritah. Purnagiri Cha Devi Syad Acharya totakah Smritaah ॥ 20॥
Meaning: : The Kshetra (region)of this matha is called Badarikaashram. Devataa (God) of this matha is known as “Narayan”. Poornaagiri ‘ is its Devi (Goddess).’Pratardanaacharya,’ having been anointed by me is its first Aacharya ( Shankaracharya)
known as.’ Totak ‘.।। 20।।
Shloka 21 :
तीर्थं चालकनन्दाख्यं आनन्दो ब्रह्मचार्यभूत् । अयमात्मा ब्रह्म चेति महावाक्यमुदाहृतम् ॥ २१॥
Tirthaam Chalakananandakhyaam Anando Brahmacharyabhuta. Ayamatma Brahma Cheti Mahavakyamudahritam. ॥ 21॥
Meaning: Alakanandaa is its ‘Teerth’ (holy water). Its Brahmachaarees are called ‘Aanand’. The Mahaavaakya of the matha is called ” “Ayamaatmaa” which is embedded in Maandookopanishhat 2 associated with Atharvaveda.।। 21. ।।
Shloka 22 :
अथर्ववेदवक्ता च भृग्वाख्यं गोत्रमुच्यते । कुरुकाश्मीरकाम्बोजपांचालादिविभागतः ।
ज्योतिर्मठवशा देशा उदीचीदिगवस्थिताः ॥ २२॥
Atharvaveda vakta cha bhrigvaakhyaam gotramuchyate. Kuru Kashmira, Kamboja, Paanchaladi Vibhagatah . Jyotirmath vashaa Desha Udeecheedigvasthita: ॥ 22॥
Meaning: The Veda of this matha is ‘ named Atharvaveda . Brahmachaaree called ‘Aanand’ is recognised as pravaktaa (speaker) of Atharvaveda.Its ‘Gotra’ (Sept) is ‘Bhrigu ‘.The areas under its jurisdiction are Kuru (Hastinapur- kurukshetra), Kashmir , Kaamboj( Haryana and north west part of Uttar Pradesh), Paanchaal (Punjab), and other Northern part.।। 22.।।
Shloka 23 :
वासो गिरिवने नित्यं गीताध्ययनतत्परः । गंभीराचलबुद्धिश्च गिरिनामा स उच्यते ॥ २३॥
Vaso girivane nityam gitadhyayanattparah. Gambheeraachala buddishcha girinama sa uchyate ॥23॥
Meaning: Those Sanyaasees who reside in Giri, the mountain of small size and the forest , who are always ready to study Geeta and who are endowed with serious and stable mind , should be considered as Girinaamaa Sanyaasees connected to Uttaraamnaaya Matha.।। 23 ।।
Shloka 24 :
वसन् पर्वतमूलेषु प्रौढं ज्ञानं विभर्ति यः । सारासारं विजानाति पर्वतः परिकीर्त्यते ॥ २४॥
Vasan Parvatamooleshu Praudham Gyanam Vibharti Yah. Sarasaram Vijaanati Parvatah Parikirtyate ॥ 24॥
Meaning: The Sanyaasee who lives at the bottom of the mountain or in the valley, is rich in adulthood , is perfect in the science of essence and futility is ‘ popular by the name of ‘ Parvat ‘. ।। 24 ।।
Shloka 25 :
तत्त्वसागरगम्भीर ज्ञानरत्नपरिग्रहः । मर्यादां वै न लब्येत सागरः परिकीर्त्यते ॥ २५॥
Tattva Sagar Gambhir Gyan Ratna Parigraha, Maryadam Vai Na Labyet Sagar: Parikirtyate
॥ 25॥
Meaning : The Sanyaase who collects gems of knowledge from deep ocean of essence as gem is collected from ocean of gems which is supposed to be the womb of gems and remains dignified like ocean is famous by the name ‘ Saagar ‘.।। 25।।
Shloka 26 :
आनन्दो हि विलासश्च वार्यते येन जीविनाम् । सम्प्रदायो यतीनां चानन्दवारः स उच्यते ॥ २६॥
Anando hi vilasasch varyate yen jeevinam. Sampradayo Yatinam Chanandwarah Sa Uchyate ॥ 26॥
Meaning: In the context under consideration, the enjoyment of materialistic world is considered as ‘Aanand’ (pleasure , luxury ). The sect of the Sanyaasees which prevents people from attachments and inclination towards materialistic enjoyment is called ‘Aanandawaar’.।। 26।।
Shloka 27 :
सत्यं ज्ञानमनन्तं यो नित्यं ध्यायेत तत्त्ववित् । स्वानन्दे रमते चैव आनन्दः परिकीर्त्यते ॥ २७॥
Satya Gyanmanantam Yo Nityam Dhyayet Tattvavit. Swanande Ramte Chaiva Anandah Parikirtyate ॥ 27॥
Meaning: The Tattwagya Brahmchaaree (philosopher) who always meditates the Brahma (the Almighty) which is known as ‘Satyam'(who always remains unchanged and hence truth) , ‘Gyaanm'(the ultimate wisdom) and ‘Anantam’ (Endless , never ending) and remains always ‘Nimagna’ (submerged ,immersed) in pleasure of his own real Roopam (Form) is called ‘Aananda’.।। 27 ।।
। 4. शृङ्गेरी मठाम्नायः । Sringeri Mathamnaya
चतुर्थो दक्षिणाम्नायः शृङ्गेरी तु मठो भवेत् । सम्प्रदायो भूरिवारो भूर्भुवो गोत्रमुच्यते ॥ 29॥
( चतुर्थो दक्षिणस्यां च शृङ्गेर्यां शारदामठ:)
मलहानिकारं लिङ्गं विभाण्डकसुपूजितम् | यत्रास्ते ऋषय शृङ्गस्य महर्षेरश्रमो महान् || 28||
Chaturtho dakshinaamnaaya shringeri tu matho bhavet | sampradaayo bhoorivaro bhurbhuvao gotramuchyate || 29 || Malhanikaram lingam vibhandakasupoojitam | yatraaste rushya shrungasya maharsherashramo mahan || 28||
Meaning: The Aamnaaya connected to the western direction , situated in Ramkshetra is the fourth one where there is the Shivaling well-worshiped by Maharshi Vibhaandak and cleanser of scum and where there is Great Aashram of Maharshi Rishhya Shringa . The name of this Aamnaay is Shringeri – Shaardaa math. Its sect is ‘ Bhuriwaar ‘ and its ‘gotra’ (Sept) is Bhoorbhuvah ‘.।। 28, 29 ।।
Shloka 30 :
पदानि त्रीणि ख्यातानि सरस्वती भारती पुरी । रामेश्वराह्वयं क्षेत्रमादिवाराहदेवता ॥ 30 ॥
padani treeni kyatani saraswati bhaarati puri | rameshhwarahvayam kshetramaadivaaraahadevataa || 30||
Meaning: The ‘pada’ or ‘Yogapatta’ (Surnames) of the ‘ Sanyaasees connected to this matha are ‘ Saraswati’, ‘ Bharati :’ and ‘ Puri’. Its Kshetra is ‘Rameshwaram.’ Its Devataa(God) is ‘Aadiwaaraah’.।। 30 ।।
Shloka 31 :
कामाक्षी तस्य देवी स्यात् सर्वकामफलप्रदा । हस्तामलक आचार्यस्तुङ्गभद्रेति तीर्थकम् ॥ 31 ॥
( पृथ्वीधराह्व,आचार्य: तुङ्गभद्रेति तीर्थकम् )
kaamaakshee tasya devee syaat sarvakaamaphalapradaa | mastaamalaka aachaaryastungabhadreti teerthakam || ( pruthveedharaahva aachaarya: tungabhadreti teerthakam | || 31 ||
Meaning: The Devi (Goddess) of this matha is ‘Kaamaakshee’ who fulfils all sorts of desires of the devotees. It’s first Aacharya or the Shankaracharya anointed by me is ‘Hastaamalaka.The ‘Teertha’ (holy water) of this matha is ‘Tungabhadra’.।। 31 ।।
Shloka 32:
चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः । अहं ब्रह्मास्मि तत्रैव महावाक्यं समीरितम् ॥ 32 ॥
chaitanyaakhe brahmachaaree yajurvedasya paathaka: | aham brahmashmee tatraiva mahaavaakyam sameeritam | || 32 ||
Meaning : The ” Brahmachaarees ‘ of this matha are called’ Chaitanya ‘ who are ‘Swaadhyaayees ‘(those who regularly study and meditate) of ‘Yajurveda’. The Mahaavaakya of this matha is “Aham Brahmaasmi”(अहं ब्रह्मास्मि) which is included as verse 1.4.10 in the ‘Brihadaaranyakopanishhat’ related to Yajurveda.
।। 32 ।।
आन्ध्र द्रविड कर्णाट केरलादिप्रभेदतः । शृङ्गेर्यधीना देशास्ते ह्यवाचीदिगवस्थिताः ॥ 33॥
स्वरज्ञानरतो नित्यं स्वरवादी कवीश्वरः । संसारसागरासारहन्ताऽसौ हि सरस्वती ॥ 34॥
विद्याभरेण सम्पूर्णः सर्वभारं परित्यजन् । दुःखभारं न जानाति भारती परिकीर्त्यते ॥ 35॥
ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं पुरीनामा स उच्यते ॥ 36॥
भूरिशब्देन सौवर्ण्य बार्यते येन जीविनाम् । सम्प्रदायो यतीनां च भूरिवारः स उच्यते ॥ 37॥
चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् । यो जानाति स वै विद्वान् चैतन्यं तद्विधीयते ॥ 38॥
(चतुर्थो दक्षिणस्यां च श्रुङ्गेर्यां शारदामठ: )
। महानुशासनम् । Mahanushasanam
मर्यादैषा सुविज्ञेया चतुर्मठविधायिनी । तामेतां समुपाश्रित्य आचार्याः स्थापिताः क्रमात् ॥ ३८॥
आम्नायाः कथिता ह्येते यतीनाञ्च पृथक् पृथक् । तैः सर्वैश्चतुराचार्यैर्नियोगेन यथाक्रमम् ॥ ३९ ॥
प्रयोक्ततव्याः स्वधर्मेषु शासनीयास्ततोऽन्यथा ।कुर्वन्तु एव सततमटनं धरणीतले ॥ ४० ॥
विरुद्धाचरणप्राप्तावाचार्याणां समाज्ञया । लोकान् संशीलयन्त्वेव स्वधर्माप्रतिरोधतः ॥ ४१ ॥
स्व-स्वराष्ट्रप्रतिष्ठित्यै सञ्चारः सुविधीयताम् । मठे तु नियतो वास आचार्यस्य न युज्यते ॥ ४२॥
वर्णाश्रमसदाचारा अस्माभिर्ये प्रसाधिताः । रक्षणीयाः सदैवैते स्व-स्व भागे यथाविधि ॥ ४३॥
चतो विनष्टिर्महती धर्मस्यास्य प्रजायते मान्द्यं सन्त्याज्यमेवात्र दाक्ष्यमेव समाश्रयेत् ॥ ४४॥
परस्परविभागे तु न प्रवेशः कदाचन । परस्परेण कर्तव्या ह्याचार्येण व्यवस्थितिः ॥ ४५॥
मर्यादाया विनाशेन लुप्येरन्नियमाः शुभाः । कलहाङ्गारसम्पत्तिर तस्तां परिवर्जयेत् ॥ ४६॥
परिव्राडार्यमर्यादो मामकीनां यथाविधि । चतुष्पीठाधिगां सत्तां प्रयुञ्ज्याच्च पृथक् पृथक् ॥ ४७॥
शुचिर्जितेन्द्रियो वेद-वेदाङ्गादिविशारदः । योगज्ञः सर्वशास्त्राणां स मदास्थानमापुयात् ॥ ४८॥
उक्तलक्षणसम्पन्नः स्याच्चेन्मत्पीठभाग् भवेत् । अन्यथारूढपीठोऽपि निग्रहार्हो मनीषिणाम् ॥ ४९ ॥
नजातु मठमुच्छिन्द्यादिधिकारिण्युपस्थिते । विघ्नानामपि बाहुल्यादेष धर्मः सनातनः ॥ ५०॥
अस्मत्पीठसमारूढः परिब्राडुक्तलक्षणः । अहमेवेति विज्ञेयो यस्य देव इति श्रुतेः ॥ ५१ ॥
एक एवाविषेच्यः स्यादन्ते लक्षणसम्मतः । तत्तत्पीठे क्रमेणैव न बहु युज्यते क्वचित् ॥ ५२॥
सुधन्वनः समौत्सुक्यनिवृत्यै धर्म-हेतवे । देवराजोपचारांश्च यथावदनुपालयेत् ॥ ५३॥
केवलं धर्ममुद्दिश्य विभवो ब्रह्मचेतसाम् । विहितश्चोपकाराच पद्मपत्रनचं व्रजेत् ॥ ५४॥
सुधन्वा हिमहाराजस्तथान्ये च नरेश्वराः । धर्मपारम्परीमेतां पालयन्तु निरन्तरम् ॥ ५५॥
चातुर्वर्ण्य यथायोग्यं वाड्यनः कायकर्मभिः । गुरोः पीठं समर्चेत विभागानुक्रमेण वै ॥ ५६ ॥
धरामालम्ब्य राजानः प्रजाभ्यः करभागिनः । कृताधिकारा आचार्या धर्मतस्तद्वदेव हि ॥ ५७॥
धर्मो मूलं मनुष्याणां स चाचार्यावलम्बनः । तस्मादाचार्यसुमणेः शासनं सर्वतोऽधिकम् ॥ ५८॥
तस्मात् सर्वप्रयत्नेन शासनं सर्वसम्मतम् । आचार्यस्य विशेषेण ह्यौदार्यभरभागिनः ॥ ५९॥
आचार्याक्षिप्त दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ६०॥
इत्येवं मनुरप्याह गौतमोऽपि विशेषतः । विशिष्टशिष्टाचारोऽपि मूलादेव प्रसिध्यति ॥ ६१ ॥
तानाचार्योपदेशांश्च राजदण्डांश्च पालयेत् । तस्मादाचार्यराजानावनवद्यौ न निन्दयेत् ॥ ६२॥
धर्मस्य पद्धतिह्यषा जगतः स्थितिहेत्वे । सर्ववर्णाश्रमाणां हि यथाशास्त्रं विधीयते ॥ ६३॥
कृते विश्वगुरुर्ब्रह्मा त्रेतायामृषीसत्तमः । द्वापरे व्यास एव स्यात् कलावत्र भवाम्यहम् ॥ ६४॥
मठाश्चत्वार आचार्याचत्वारश्वधुरन्धराः । सम्प्रदायाश्च चत्वार एषा धर्मव्यवस्थितिः ॥ ६५॥
अथोध्र्ध्व शेषा आम्नायाः atha Urdhva, Shesha Amnaya
विज्ञानैक विग्रहाः पञ्चमस्तूर्ध्व आम्नायः सुमेरुमठ उच्यते । सम्प्रदायोऽस्य काशी स्यात् सत्यज्ञानाभिधे पदे ॥ ६६ ॥
कैलासः क्षेत्रमित्युक्तं देवताऽस्य निरञ्जनः । देवी माया तथाचार्य ईश्वरोऽस्य प्रकीर्तितः ॥ ६७॥
तीर्थ तु मानसं प्रोक्तं ब्रह्मतत्त्वावगाहि तत् । तत्र संयोगमात्रेण संन्यासं समुपाश्रयेत् ॥ ६८॥
सूक्ष्मवेदस्य वक्ता च तत्र धर्मं समाचरेत् । षष्ठ स्वात्माख्य आम्नायः परमात्मा मठो महान् ॥ ६९ ॥
सत्त्वतोषः सम्प्रदायः पदं योगमनुस्मरेत् । नभः सरोवरं क्षेत्रं परहंसोऽस्य देवता ॥ ७० ॥
देवी स्यान्मानसी माया आचार्यश्चेतनाह्वयः । त्रिपुटीतीर्थमुत्कृष्टं सर्वपुण्यप्रदायकम् ॥ ७१ ॥
भव-पाशविनाशाय संन्यासं तत्र चाश्रयेत् । वेदान्तवाक्यवक्ता च तत्र धर्म समाचरेत् ॥ ७२॥
सप्तमो निष्कलाम्नायः सहस्त्रार्कद्युतिर्मठः । सम्प्रदायोऽस्य सच्छिष्यः श्रीगुरोः पादुके पदे ॥ ७३॥
तत्रानुभूतिः क्षेत्रं स्याद् विश्वरूपोऽस्य देवता । देवी चिच्छक्तिनाम्नी हि आचार्यः सद्गुरुः स्मृतः ॥ ७४॥
सच्छास्त्रश्रवणं तीर्थं जरामृत्युविनाशकम् । पूर्णनन्दप्रसादेन संन्यासं तत्र चाश्रयेत् ॥ ७५॥
॥ इति श्री पूज्य गोविन्दभगवत्पाद शिष्य: जगद्गुरु भगवत्पाद श्री आद्य शङ्कराचार्य कृत मन्मठाम्नाय महानुशासनं सम्पूर्णम् ॥
Iti Sri Govindabhagavatpada Shishyah Jagadguru Shri Adi Shankarahaya Bhagavtpada Kruta Mathamnaya Mahanushasanam Sampoornam