
उत्तराम्नायबदरीज्योतिर्मठः, हिमालयः,जगद्गुरुशङ्कराचार्यः
(जन्मकालः- 2532 वर्षेभ्यः पूर्वम्) पश्चिमाम्नायद्वारकाशारदापीठम् - द्वारका,
नारायणसमारम्भां व्यासशङ्करमध्यामाम् । अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ।।
जगद्गुरु शङ्कराचार्य उत्तराम्नाय ज्योतिर्मठ बदरिकाश्रम सेवासमितिः(पञ्जीकृता)
विश्वावसुनक्षत्रम् – भाद्रपदशुक्ल प्रतिपद्, मुम्बई ( 24th Aug 2025)
परमहंसपरिव्राजकस्वामिश्रीगोविन्दनन्दसरस्वतीमहाराजः, संन्यासी दीक्षितशिष्यः
बदरी-द्वारापीठयोराचार्यः, जगद्गुरुशङ्कराचार्यः , धर्मसम्राट स्वामिश्रीस्वरूपानन्दसरस्वतीस्वामिचरणाः ।
शास्त्रं शारीरमीमांसा देवश्चन्द्रार्धशेखरः । आचार्याः शङ्कराचार्याः सन्तु जन्मनि जन्मनि ।।
प्रति,
“कृत्रिमः जगद्गुरुः” रामभद्राचार्यः, अन्धाचार्यः
चित्रकूटः, श्रीतुलसीपीठसेवान्यासः, आमोदवना, पोस्ट, नया गांव, चित्रकूटः, (म.प्र.) 210204, दूरभाष- 05198-298430,
ई-मेल:jrdsuniversity@jagadgururambhadracharya.com, namoraghvaya@gmail.com
अन्धाचार्याय सन्देशः
“जगद्गुरुः” इति स्वयम् उद्घोषयन् कश्चन कृत्रिमः “जगद्गुरुः” “स्वयम्भ्वाचार्य” रामभद्राचार्योऽन्धाचार्यरूपेण ख्यातस्स्वकीयान्ध्यप्रतापेन सम्मानितश्च सन् पूज्यजगद्गुरुश्रीमदादिशङ्कराचार्याणाम् तथा तेषां ब्रह्मसूत्रभाष्यविषये (शुभंकरमिश्रेण सह विधीयमाने वार्तालापे https://www.youtube.com/watch?v=0yFs5t_O_zw ) अशास्त्रीयाणि व्याख्यानानि वारं वारं कृतवानिति वैदिकसनातनधर्मावलम्बिनां मनः चेखिद्यतेतराम् । अत आचार्यनिन्दापराधस्य क्षमायाचनं करोतु, अन्यथा शास्त्रार्थाय सज्जीभवतु । प्रत्युत्तरप्रदानार्थम् भवते केवलं पञ्चदशदिनानि(15) दीयन्ते । यदि भवता स्वहस्ताक्षरैः किमपि उत्तरं न दीयते, तर्हि वयं एवं करिष्यामः येन, समग्रं धार्मिकं जगत्, सम्पूर्णं राष्ट्रं च स्मरेत । अतो भवता स्वमुखेनैव क्षमायाचनं करणीयम् । अधुना वयं मुम्बईनगरेऽस्माकं चातुर्मास्यव्रते स्मः, भाद्रपदपूर्णिमायां व्रतसमाप्तिर्भविष्यति । “शास्त्रार्थ”विषये किं भवन्तः स्वयमेव स्थानस्य निश्चयं करिष्यन्ति व ? यदि इच्छति वयं भावत्कं स्थानमागत्य त्वाम् पराजेष्यामस्तदा तथैव भवतु । वयन्तत्रागत्य भवान् “परममूर्खः” इति साधयिष्यामः । पूर्वतनापराधेष्वन्धत्वेनास्माभिः क्षान्तः । किन्त्विदानीं न क्षमाभाग् । उत्तरकाले न कश्चित् एतादृशं कुकार्यं कर्तुमुत्सहेत इति न क्षम्यते ।
इति
नारायणस्मरणपूर्वकम्
— गोविन्दानन्द सरस्वती,
प्रति – सर्वाः पत्रिकाः,
जगद्गुरु शङ्कराचार्य उत्तराम्नाय ज्योतिर्मठ बदरिकाश्रम सेवासमितिः (पञ्जीकृता)
कार्यालय : ई-131, बी.के.दत्त कालोनी, लोधी रोड, नई दिल्ली – 110003,
www.badarijyotirmath.org, jyotirmathbadari@gmail.com